वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् । ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम्
क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् । महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः
क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः । तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम्
चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः । पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम्
तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः । कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम्
सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् । अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम्
कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् । महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः
ज्वलद्भिः शब्दकृद्भिश्च ध्वान्तयुक्तं भयानकम् । कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् । ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम्
शब्दकृद्भिः पातकिभिः संयुतं क्लेशदं सदा । क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम्
शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः । तप्तपाषाणलोहानां समूहैः परिपूरितैः
पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः । क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम्
ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् । अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम्
नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् । द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम्
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः । ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम्
प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् । असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः
क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् । पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवम् । ७२ परित्राहीति शब्दं च कुर्वतामसतामपि । गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम्
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् । धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम्
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् । सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम्
पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् । कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति
कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् । महापातकिनां चैव महत्क्लेशप्रदं परम्
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् । कुण्डं नक्रमुखाकारं धनुःषोडशमानकम्
गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा । धनुःशतप्रमाणं च कीर्तितं गजदंशनम्
धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति । पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम्
कालचक्रेण संयुक्तं भ्रममाणं भयानकम् । कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम्
लक्षपौरुषमानं च गम्भीरं विस्मृतं सति । कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च
पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् । परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम्
ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा । घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम्
पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः । यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे । सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः