पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः । प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम्
ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा । प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम्
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः । प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम्
लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् । प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः । महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम्
भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् । चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च
तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः । अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम्
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् । धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम्
प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् । वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः । महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः
प्रचलद्भिर्यथा तप्ततैलजीविभिरेव च । विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम्
तद्भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते । प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम्
महापातकिभिर्युक्तं दग्धाङ्गारैश्च वेष्टितम् । काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतपीडितैः
ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् । शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम्
शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् । वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः
ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः । कीटैश्च शङ्कुप्रमितैः सर्पमानैर्भयङ्करैः
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति । महापातकिभिर्युक्तं मम दूतैश्च ताडिते
द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते । तद्भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् । सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः
सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः । कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः
सर्वं कोशार्धमानं च महापातकिभिर्युतम् । हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः
हाहेति शब्दं कुर्वद्भिस्ताडितैर्मम पार्षदैः । वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम्
वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः । कुण्डत्रयं शरादीनां तैरेव परिपूरितम्
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः । तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम्
कीटैः शङ्कुसमानैश्च भक्षितैः पापिभिर्युतम् । वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः
रुदद्भिः क्रोशमानैश्च मम दूतैश्च ताडितैः । अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा
दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् । वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः
विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः । काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम्
मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् । भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम्
धनुःशतं जीवयुक्तं पापिभिः सङ्कुलं सदा । शब्दकृद्भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम्