क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः । तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम्
सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् । त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः
प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः । विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम्
अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् । ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः । तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम्
युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा । गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः । श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा
तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा । क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम्
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च । ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः
सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः । नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम्
पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः । वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम्
तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः । शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम्
पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः । दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम्
तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् । पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम्
वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः । नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम्
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः । कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम्
वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः । मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम्
महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् । परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः
पापिभिः सङ्कुलं चैव वापीमानं भयानकम् । कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः
पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः । वापीतुर्यप्रमाणं च नखादिकचतुष्टयम्
पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः । प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम्
ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा । प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम्
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः । प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम्
लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् । प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः । महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम्
भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् । चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च
तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः । अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम्
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् । धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम्
प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् । वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः । महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः