अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते । सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम्
जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् । सर्वमङ्गलरूपं च परमानन्दकारणम्
कारणं सर्वसिद्धीनां नरकार्णवतारणम् । भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम्
विमोक्षसोपानमिदमविनाशपदं स्मृतम् । सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम्
कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे । न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः
देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् । यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम्
प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च । न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम्
त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः । निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः
स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा । गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः
भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः । स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम्
यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना । कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः
देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् । करोति नखलेखन्या चित्रगुप्तश्च भीतवत्
मधुपर्कादिकं तेषां कुरुते च पुनः पुनः । विलङ्घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति
दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः । ते महाभाग्यवन्तो हि सहस्रकुलपावनाः
यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च । प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत्
कामश्च कामिनं याति लोभक्रोधौ ततः सति । मृत्युः प्रलीयते रोगो जरा शोको भयं तथा
कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च । ये ये न यान्ति तां पीडां कथितास्ते मया सति
शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम्
देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् । पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत्
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह । बद्धोऽङ्गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः
बिभर्ति सूक्ष्मं देहं तं तद्रूपं भोगहेतवे । स देहो न भवेद्भस्म ज्वलदग्नौ ममालये
जलेन नष्टो देही वा प्रहारे सुचिरं कृते । न शस्त्रेण न वास्त्रेण सुतीक्ष्णकण्टके तथा
तप्तद्रवे तप्तलोहे तप्तपाषाण एव च । प्रतप्तप्रतिमाश्लेषे यत्पूर्वपतनेऽपि च
न दग्धो न च भग्नः स भुङ्क्ते सन्तापमेव च । कथितो देहवृत्तान्तः कारणं च यथागमम् । कुण्डानां लक्षणं सर्वं बोधाय कथयामि ते
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनं नाम षट्त्रिंशोऽध्यायः
नानानरककुण्डवर्णनम् सावित्र्युवाच धर्मराज उवाच पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् । निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया । क्लेशदं पातकानां च नानारूपं तदालयम्
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् । परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम्
महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् । रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम्
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् । महाघोरं काकुशब्दं प्रहारेण दृढेन च