यस्यानास्था वेदवाक्ये मन्दं हसति संततम् । व्रतोपवासहीनश्च सद्वाक्यपरनिन्दकः
धूम्रान्धे च वसेत्सोऽपि शताब्दं धूम्रभक्षकः । जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च
ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः । यः करोत्युपहासं च देवब्राह्मणयोर्धने
पातयित्वा स पुरुषान्दशपूर्वान्दशापरान् । सोऽयं याति च धूम्रान्धं धूम्रध्वान्तसमन्वितम्
धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम् । ततो मूषकजातिश्च सप्तजन्मसु भारते
ततो नानाविधाः पक्षिजातयः कृमिजातिभिः । ततो नानाविधा वृक्षा पशवश्च ततो नरः
विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः । लाक्षालोहादिव्यापारी रसादिविक्रयी च यः
स याति नागवेष्टं च नागैर्वेष्टितमेव च । वसेत्स लोममानाब्दं तत्रैव नागपाशितः
ततो नानाविधाः पक्षिजातयश्च ततो नरः । ततो भवेत्स गणको वैद्यश्च सप्तजन्मसु
गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः । प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते
अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै । सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः । भ्रमन्ति नानायोनिं च किं भूयः श्रोतुमिच्छसि
देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् सावित्र्युवाच धर्मराज महाभाग वेदवेदाङ्गपारग । नानापुराणेतिहासे यत्सारं तत्प्रदर्शय
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् । कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम्
सर्वप्रदं च सर्वेषां सर्वमङ्गलकारणम् । भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः
कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च । न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम्
किमाकाराणि कुण्डानि तानि वा निर्मितानि च । के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः
स्वदेहे भस्मसाद्भूते याति लोकान्तरं नरः । केन देहेन वा भोगं करोति च शुभाशुभम्
सुचिरं क्लेशभोगेन कथं देहो न नश्यति । देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् । कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम्
धर्मराज उवाच वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च । पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च
अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते । सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम्
जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् । सर्वमङ्गलरूपं च परमानन्दकारणम्
कारणं सर्वसिद्धीनां नरकार्णवतारणम् । भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम्
विमोक्षसोपानमिदमविनाशपदं स्मृतम् । सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम्
कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे । न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः
देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् । यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम्
प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च । न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम्
त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः । निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः
स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा । गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः
भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः । स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम्