भीष्मेण पूजितः कामं सत्यवत्या च मानितः । तस्थौ तत्र महातेजा विधूमोऽग्निरिवापरः
तमुवाच मुनिं माता पुत्रमुत्पादयाधुना । क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम्
व्यासः श्रुत्वा वचो मातुराप्तवाक्यममन्यत । ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिन्तयत्
अम्बिका च यदा स्नाता नारी ऋतुमती तदा । सङ्गं प्राप्य मुनेः पुत्रमसूतान्धं महाबलम्
जन्मान्धं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि । द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै
ऋतुकालेऽथ सम्प्राप्ते व्यासेन सह सङ्गता । तथा चाम्बालिका रात्रौ गर्भं नारी दधार सा
सोऽपि पाण्डुः सुतो जातो राज्ययोग्यो न सम्मतः । पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम्
आहूय च ततो व्यासं सम्प्रार्थ्य मुनिसत्तमम् । प्रेषयामास रात्रौ सा शयनागारमुत्तमम्
न गता च वधूस्तत्र प्रेष्या सम्प्रेषिता तया । तस्यां च विदुरो जातो दास्यां धर्मांशतः शुभः
एवं व्यासेन ते पुत्रा धृतराष्ट्रादयस्त्रयः । उत्पादिता महावीरा वंशरक्षणहेतवे
एतद्वः सर्वमाख्यातं तस्य वंशसमुद्भवम् । व्यासेन रक्षितो वंशो भ्रातृधर्मविदानघाः
मनुकृतं देवीस्तवनम् नारद उवाच नारायण धराधार सर्वपालनकारण । भवतोदीरितं देवीचरितं पापनाशनम्
मन्वन्तरेषु सर्वेषु सा देवी यत्स्वरूपिणी । यदाकारेण कुरुते प्रादुर्भावं महेश्वरी
तान्नः सर्वान्समाख्याहि देवीमाहात्म्यमिश्रितान् । यथा च येन येनेह पूजिता संस्तुतापि हि
मनोरथान्पूरयति भक्तानां भक्तवत्सला । तन्नः शुभूषमाणानां देवीचरितमुत्तमम्
वर्णयस्व कृपासिन्धो येनाप्नोति सुखं महत् । श्रीनारायण उवाच आकर्णय महर्षे त्वं चरितं पापनाशनम्
भक्तानां भक्तिजननं महासम्पत्तिकारकम् । जगद्योनिर्महातेजा ब्रह्मा लोकपितामहः
आविरासीन्नाभिपद्माद्देवदेवस्य चक्रिणः । स चतुर्मुख आसाद्य प्रादुर्भावं महामते
मनुं स्वायम्भुवं नाम जनयामास मानसात् । स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः
शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम् । स मनुः क्षीरसिन्धोश्च तीरे परमपावने
देवीमाराधयामास महाभाग्यफलप्रदाम् । मूर्तिं च मृण्मयीं तस्या विधाय पृथिवीपतिः
उपासते स्म तां देवीं वाग्भवं स जपन् रहः । निराहारो जितश्वासो नियमव्रतकर्शितः
एकपादेन सन्तिष्ठन् धरायामनिशं स्थिरः । शतवर्षं जितः कामः क्रोधस्तेन महात्मना
जे स्थावरतां देव्याश्चरणौ चिन्तयन् हृदि । तस्य तत्तपसा देवी प्रादुर्भूता जगन्मयी
उवाच वचनं दिव्यं वरं वरय भूमिप । तत आनन्दजनकं श्रुत्वा वाक्यं महीपतिः
वरयामास तान् हृत्स्थान् वरानमरदुर्लभान् । मनुरुवाच जय देवि विशालाक्षि जय सर्वान्तरस्थिते
मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले । त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत्
वैकुण्ठः पालयत्येव हरः संहरते क्षणात् । शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया
प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् । यादसामधिपः पाशी पालनं मादृशामपि
कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः । हुतभुङ्नैर्ऋतो वायुरीशानः शेष एव च