कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि । उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् । ततो भवेन्मानवी च विधवा सप्तजन्मसु
सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः । या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा
तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् । निवसेदतिसन्तप्ता मम दूतेन ताडिता
शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश । काकी जन्मसहस्राणि शतजन्मानि सूकरी
शृगाली शतजन्मानि शतजन्मानि कुक्कुटी । पारावती सप्तजन्म वानरी सप्तजन्मसु
ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते । ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः । निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने
जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके । स्वैरिणी दलने चैव धृष्टा च शोषणे तथा
निवसेद्यातनायुक्ता मम दूतेन ताडिता । विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति
ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः । ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः
वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि । सवर्णपरदारैश्च कषायं यान्ति ते जनाः
भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् । ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः
योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः । क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते
मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् । शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः
प्रतप्तमूत्रभोजी च मम दूतेन ताडितः । तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश
सप्तजन्म वराहश्च छागलश्च ततः शुचिः । करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत्
मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् । गङ्गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत्
शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् । दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत्
स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् । आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद् द्विजः
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् । मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् । एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश
तथाङ्गारप्रदग्धाश्च मम दूतेन ताडिताः । चाण्डालस्तुलसीं स्पृष्ट्वा सप्तजन्म ततः शुचिः
म्लेच्छो गङ्गाजलस्पर्शी पञ्चजन्म ततः शुचिः । शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि
अर्चास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचि । दक्षहस्तप्रदाता च सर्पश्च सप्तजन्मसु
ततो भवेद् ब्रह्महीनो मानवश्च ततः शुचिः । मिथ्यावादी देवगृहे देवलः सप्तजन्मसु
विप्रादिस्पर्शकारी च व्याघ्रजातिर्भवेद् ध्रुवम् । ततो भवेच्च मूकः स बधिरश्च त्रिजन्मनि
भार्याहीनो बन्धुहीनो वंशहीनस्ततः शुचिः । मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते । मिथ्यासाक्षी च वक्तव्ये मण्डूकः सप्तजन्मसु
पूर्वान्सप्तापरान्सप्त पुरुषान्हन्ति चात्मनः । नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः