तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः । तित्तिरिः कुलटागामी धृष्टागामी च वायसः
कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः । पुङ्गीगामी सूकरश्च सप्तजन्मनि भारते
महावेश्याप्रगामी च जायते शाल्मलीतरुः । यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः
अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च । ततो भवेन्मानवश्चाप्युदरे रोगपीडितः
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः । वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च
स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम् । तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम्
निवसेच्छरशय्यायां मम दूतेन ताडितः । भक्त्या न पूजयेद्विप्रः शिवलिङ्गं च पार्थिवम्
स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् । स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु
ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः । करोति कुण्ठितं विप्रं यद्भिया कम्पते द्विजः
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च । प्रकोपवदना कोपात् स्वामिनं या च पश्यति
कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि । उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् । ततो भवेन्मानवी च विधवा सप्तजन्मसु
सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः । या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा
तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् । निवसेदतिसन्तप्ता मम दूतेन ताडिता
शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश । काकी जन्मसहस्राणि शतजन्मानि सूकरी
शृगाली शतजन्मानि शतजन्मानि कुक्कुटी । पारावती सप्तजन्म वानरी सप्तजन्मसु
ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते । ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः । निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने
जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके । स्वैरिणी दलने चैव धृष्टा च शोषणे तथा
निवसेद्यातनायुक्ता मम दूतेन ताडिता । विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति
ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः । ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः
वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि । सवर्णपरदारैश्च कषायं यान्ति ते जनाः
भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् । ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः
योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः । क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते
मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् । शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः
प्रतप्तमूत्रभोजी च मम दूतेन ताडितः । तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश
सप्तजन्म वराहश्च छागलश्च ततः शुचिः । करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत्
मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् । गङ्गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत्
शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् । दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत्
स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् । आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद् द्विजः