शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते
शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् । तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद् ध्रुवम्
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः
स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम्
न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति । कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम्
द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः
तप्तमुद्रादग्धदेहस्तप्तशूलाङ्कितस्तथा । हरिवासरभोजी च कुम्भीपाकं व्रजेद् द्विजः
गुरुपत्नीं राजपत्नीं सपत्नीं मातरं ध्रुवम् । सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम्
सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् । मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम्
शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् । भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः
एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः । स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत्
अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः । स याति कुम्भीपाके च महापापी सुदुष्करे
करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च । त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् । योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी गङ्गागर्भान्तरे वसेत्
तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् । वाराणस्यां बदर्यां च गङ्गासागरसङ्गमे
पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले । हरिद्वारे च केदारे तथा मातृपुरेऽपि च
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने । गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले
एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः
शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः । तथा देवोपजीवी च देवलः परिकीर्तितः
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः । सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः
उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः । एते महापातकिनः कुम्भीपाकं प्रयान्ति ते । कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते
नानाकर्मविपाकफलकथनम् धर्मराज उवाच देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् । शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा
पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते । स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम्
शतवर्षं कालसूत्रे स्थिरीभूतो भवेद् ध्रुवम् । तत्र जन्मनि रोगी च ततः शुद्धो भवेद् द्विजः
पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता । तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि
वेश्या च पञ्चमे षष्ठे पुङ्गी च सप्तमेऽष्टमे । तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि । पुङ्गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम्
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् । षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम्
पुङ्गीगामी दशगुणं वसेत्तत्र न संशयः । महावेश्याकामुकश्च ततो दशगुणं वसेत्