शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च । द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः
पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् । यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः
यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम्
प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् । ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते
ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् । सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम्
सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा । सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते
कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् । शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा
पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः
अम्बुवाच्यां भूखननं जलशौचादिकं च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते
गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् । अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः
विवाहो यस्य न भवेन्न पश्यति सुतं तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः
गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः
दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः । दिने दिने गोवधं च लभते नात्र संशयः
ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् । भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम्
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः
पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् । गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात्
यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च । सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम्
अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः । यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः
स्वभर्तरि च देवे वा भेदबुद्धिं करोति या । कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम्
गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा । तडागे वा तु दुर्गे वा स गोहत्यां लभेद् ध्रुवम्
प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् । पुत्रलोभादथाज्ञानात्स गोहत्या लभेद् ध्रुवम्
राजके दैवके यत्नाद् गोस्वामी गां न रक्षति । दुःखं ददाति यो मूढो गोहत्यां स लभेद् ध्रुवम्
प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् । नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद् ध्रुवम्
शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम्
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति । सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद् ध्रुवम्
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः । विद्यार्थिने च विद्यां च स गोहत्यां लभेद् ध्रुवम्
गोहत्या विप्रहत्या च कथिता चातिदेशिकी । गम्यां स्त्रियं नृणामेव निबोध कथयामि ते
स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् । अगम्या च तदन्या या चेति वेदविदो विदुः
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि । अत्यगम्या हि या याश्च निबोध कथयामि ताः