अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही । द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः । एतेषां लक्षणं सर्वं वद वेदविदां वर
धर्मराज उवाच श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति । शिवे च शिवलिङ्गे च सूर्ये सूर्यमणौ तथा
गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः
स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः
वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः
विप्रपादोदके चैव शालग्रामोदके तथा । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः
शिवनैवेद्यके चैव हरिनैवेद्यके तथा । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे । सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि
माययानेकरूपे वाप्येक एव हि निर्गुणे । करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः
शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च । द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः
पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् । यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः
यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम्
प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् । ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते
ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् । सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम्
सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा । सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते
कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् । शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा
पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः
अम्बुवाच्यां भूखननं जलशौचादिकं च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते
गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् । अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः
विवाहो यस्य न भवेन्न पश्यति सुतं तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः
गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः
दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः । दिने दिने गोवधं च लभते नात्र संशयः
ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् । भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम्
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः
पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् । गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात्
यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च । सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम्
अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः । यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः
स्वभर्तरि च देवे वा भेदबुद्धिं करोति या । कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम्