ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः । ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः
नानाकर्मविपाकफलवर्णनम् यम उवाच छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः । नरघाती हन्ति नरमर्थलोभेन भारते
असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश । तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत्
छिन्नाङ्गः संवसेत् सोऽपि खड्गधारेण सन्ततम् । अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः
मन्थानः शतजन्मानि शतजन्मानि सूकरः । कुक्कुटः सप्त जन्मानि शृगालः सप्तजन्मसु
व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु । सप्तजन्मसु मण्डूको यमदूतेन ताडितः
स भवेद्भारते वर्षे महिषश्च ततः शुचिः । ग्रामाणां नगराणां वा दहनं यः करोति च
क्षुरधारे वसेत्सोऽपि छिन्नाङ्गस्त्रियुगं सति । ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम्
सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु । ततो भवेन्महाशूली मानवः सप्तजन्मनि
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः । परकर्णे मुखं दत्त्वा परनिन्दां करोति यः
परदोषे महाश्लाघी देवब्राह्मणनिन्दकः । सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम्
ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु । वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम्
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः । गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः
गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः । ताडितो यमदूतेन वसेत्तत्र युगत्रयम्
ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः । त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः । भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः
सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः । ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम्
ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः । ततो भवेन्मानवश्च महारोगी ततः शुचिः
हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा । स याति गजदंशं च महापापी युगत्रयम्
ताडितो यमदूतेन नागदन्तेन सन्ततम् । स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि
गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः । जलं पिबन्तीं तृषितां गां वारयति यः पुमान्
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् । तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः । सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः
गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् । यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च
भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते । कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् । क्षणं पतति वह्नौ च क्षणं पतति कण्टके
क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् । क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके
गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः । काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः । नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः
सावित्र्युवाच विप्रहत्या च गोहत्या किंविधा चातिदैशिकी । का वा नृणामगम्या च को वा संध्याविहीनकः