देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् । ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः
रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः । तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद् ध्रुवम्
त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि । जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः
ततो रक्तविकारी च शूली वै मानवो भवेत् । सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः
रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः । तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः
स भवेदश्वजातिश्च भारते सप्तजन्मसु । ततोऽधिकाङ्गजातिश्च पादरोगी ततः शुचिः
पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः । स्वलोममानवर्षं च लालाकुण्डे वसेद् ध्रुवम्
ताडितो यमदूतेन तद्भोजी तत्र दुःखितः । ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः
म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि । वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक्
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति
त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि । ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः
धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः । आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः
शताब्दं तत्र निवसेद्यमदूतेन ताडितः । ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि
ततो भवेद्वानरश्च कासव्याधियुतो भुवि । वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः
करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः । स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि । व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः
गोधनेषु च विप्रेषु करोति वक्रतां पुमान् । प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति
ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मनि । दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः
ततो भवेद् गृध्रजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि
निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति । कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः
ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः
घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः । स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी
तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः । सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः
सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा । भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः
स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् । स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत्
दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि । सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत्
बलेनैव छलेनैव हिंसारूपेण वा सति । बलिष्ठश्च हरेद्भूमिं भारते परपैतृकीम्
स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् । तप्ततैले यथा जीवो दग्धो भवति सन्ततम्
भस्मसान्न भवत्येव भोगे देही न नश्यति । सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति
शब्दं करोत्यनाहारो यमदूतेन ताडितः । षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः