ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततो भारतमागत्य स शूद्रः सप्तजन्मसु
महारोगी दरिद्रश्च बधिरो मूक एव च । कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः
स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः । सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः
वसेच्च सर्पविड्भोजी ततः सर्पो भवेद् ध्रुवम् । ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः
महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद् ध्रुवम् । विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः
स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च । दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान्
हस्तपादादिबद्धश्च यमदूतेन ताडितः । ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत्
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः । यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः
स एव गारले कुण्डे जीवमानाब्दकं वसेत् । भक्षितो गरलैर्दग्धो यमदूतेन ताडितः
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः । दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च
स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् । स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम्
शब्दकृद्भक्षितस्तैस्तु यमदूतेन ताडितः । करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे
पुनः सूकरयोनौ च जायते सप्तजन्मसु । त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः
अर्थलोभेन यो मूढः प्रजादण्डं करोति सः । वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद् ध्रुवम्
ततो वृश्चिकजातिश्च सप्तजन्मसु भारते । ततो नरश्चाङ्गहीनो व्याधिशुद्धो भवेद् ध्रुवम्
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् । सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः
स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु । विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः
कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः । प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः
स पङ्कतप्ततोयाक्तं सान्धकारं भयङ्करम् । तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम्
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च । ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात्
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः । नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः
ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् । ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः
वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः । कामेन कामुको यो हि पुण्यक्षेत्रे च भारते
स वसेत्काककुण्डे च काकैः संचूर्णलोचनः । ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि
स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः । स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद् ध्रुवम्
ताडितो यमदूतेन मन्थानैश्छन्नलोचनः । तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि
सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी । भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः
यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि । स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः
तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः । ताडितो यमदूतेन ततः शुद्धो भवेन्नरः
भारते देवचौरश्च देवद्रव्यापहारकः । स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद् ध्रुवम्