पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् । स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम्
ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते । ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह
योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् । श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः
स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् । ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः
करोति शठता तद्वन्नित्यं सुहृदि यो नरः । कुण्डं गात्रमलानां च स प्रयाति शताब्दकम्
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि । त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद् ध्रुवम्
बधिरं यो हसत्येव निन्दत्येवाभिमानतः । स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम्
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु । सप्तजन्मन्यङ्गहीनस्ततः शुद्धिं लभेद् ध्रुवम्
लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः । मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवत्सरम्
ततो भवेच्च शशको मीनश्च सप्तजन्मसु । त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु
एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद् ध्रुवम् । स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः । कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति
तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्कराः । मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा
ततो हि भारते पापी कन्याविट्कृमिगो भवेत् । षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु
त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु । मण्डूको हि जलौकाश्च सप्तजन्मसु भारते
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद् ध्रुवम् । व्रतानामुपवासानां श्राद्धादीनां च सङ्गमे
करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु । स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि
तद्दैवदिनमानाब्दं तद्भोजी दण्डताडितः । सकेशं पार्थिवं लिङ्गं यो वार्चयति भारते
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् । तदन्ते यावनीं योनिं प्रयाति हरकोपतः
शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद् ध्रुवम् । पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च
स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे । ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु
भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः । यः सेवते महामूढो गुर्विणीं च स्वकामिनीम्
प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति । अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च
लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके । स व्रजेद्रजकीं योनिं काकानां सप्तजन्मसु
महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः । यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत्
शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति । यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः । ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध ्रुवम् । वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा
तीक्ष्णकण्टककुण्डे स तद्भोजी तत्र तिष्ठति । ताडितो यमदूतेन दण्डेन च चतुर्गुणम्