योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः । आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः
स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः । अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च
स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः । बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः
एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् । येषां निवासो यत्कुण्डे निबोध कथयामि ते
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कुण्डसंख्यानिरूपणं नाम द्वात्रिंशोऽध्यायः
नानाकर्मविपाकफलकथनम् धर्मराज उवाच हरिसेवारतः शुद्धो योगसिद्धो व्रती सति । तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम्
कटुवाचा बान्धवांश्च बललेपेन यो नरः । दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः
स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने । पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि
ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् । न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः
तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे । तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु
रविवारे च संक्रान्त्याममायां श्राद्धवासरे । वस्त्राणां क्षारसंयोगं करोति केवलं नरः
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च । स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते
मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः । वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च
ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः । गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः
ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके । नातः परतरं कुण्डं दुःखदं तु भविष्यति
तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः । देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते
स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः । षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः
तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति । षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि
परकीयतडागे च तडागं यः करोति च । उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति । पुनः पूर्णशताब्दं च स वृषो भारते भवेत्
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च । पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति
ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् । श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः
पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् । यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः । पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः
यानि कानि च पापानि ब्रह्महत्यादिकानि च । इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत्
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि । स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम्
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु । ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च
पुमांसं कामिनी वापि कामिनीं वा पुमानथ । यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः