जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् । स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत्
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् । यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् । इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह । इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते । महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम्
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः
सावित्र्युपाख्याने कुण्डसंख्यानिरूपणम् श्रीनारायण उवाच मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् । कर्माशुभविपाकं च तामुवाच रवेः सुतः
धर्मराज उवाच शुभकर्मविपाकान्न नरकं याति मानवः । कर्माशुभविपाकं च कथयामि निशामय
नानापुराणभेदेन नामभेदेन भामिनि । नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः
शुभकर्मविपाकान्न नरकं याति कर्मभिः । कुकर्मणा च नरकं याति नानाविधं नरः
नरकाणां च कुण्डानि सन्ति नानाविधानि च । नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च
विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् । भयङ्कराणि घोराणि हे वत्से कुत्सितानि च
षडशीति च कुण्डानि एवमन्यानि सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् । विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम्
गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च । शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम्
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च । मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम्
लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् । ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत्
चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् । तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम्
प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् । कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम्
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् । कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते
शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् । गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम्
मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् । तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम्
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च । चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम्
ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते । तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम्
गोकामुख नक्रमुखं गजदंशं च गोमुखम् । कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम्
पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् । उल्कामुखमन्धकूपं वेधनं ताडनं तथा
जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् । शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम्
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च । नियुतैः किङ्करगणै रक्षितानि च सन्ततम्
दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः । शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः
तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः । तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः