अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् । सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च
स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् । सर्वेषां च व्रतानां च तपसां फलमेव च
पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा । फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम्
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः । निरूपितं सारभूतं देवीपादाम्बुजार्चनम्
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् । तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च
तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च । सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति
भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् । गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे
अयं ते कथितः कर्मविपाको मङ्गलो नृणाम् । सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः
यमाष्टकवर्णनम् श्रीनारायण उवाच शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सपुलका यमं पुनरुवाच सा
सावित्र्युवाच शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् । श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम्
दानवानां च सिद्धानां तपसां च परं पदम् । योगानां चैव वेदानां कीर्तनं सेवनं विभो
मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च । श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम्
भजामि केन विधिना वद वेदविदांवर । शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम्
कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि । इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा
तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च । सावित्र्युवाच तपसा धर्ममाराध्य पुष्करे भास्करः पुरा
धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् । समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् । येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम्
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् । बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् । विश्वं च कलयत्येव यः सर्वेषु च सन्ततम्
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् । तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् । स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत्
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् । यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् । इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह । इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते । महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम्
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः
सावित्र्युपाख्याने कुण्डसंख्यानिरूपणम् श्रीनारायण उवाच मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् । कर्माशुभविपाकं च तामुवाच रवेः सुतः
धर्मराज उवाच शुभकर्मविपाकान्न नरकं याति मानवः । कर्माशुभविपाकं च कथयामि निशामय
नानापुराणभेदेन नामभेदेन भामिनि । नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः
शुभकर्मविपाकान्न नरकं याति कर्मभिः । कुकर्मणा च नरकं याति नानाविधं नरः