पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् । भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः
षष्टिवर्षसहस्राणि शक्रलोके महीयते । रविवारे च संक्रान्त्यां सप्तम्यां शुक्लपक्षके
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते । महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् । ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत्
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि । पुनर्महीं समागत्य श्रीमानतुलविक्रमः
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः । माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम्
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश । महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम्
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः । गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते । गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः । तदन्ते पुनरागत्य राजराजेश्वरो भवेत्
श्रीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी । भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे । ततः पुनरिहागत्य सुखी च धनवान्भवेत्
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः । यो वक्ति वा ददात्येव हरेर्नामानि भारते
युगं नाम प्रमाणं च विष्णुलोके महीयते । ततः पुनरिहागत्य स सुखी धनवान्भवेत्
यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् । नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत्
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् । न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् । विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात्
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् । यावज्जीवनपर्यन्तं स याति शिवमन्दिरम्
मृदो रेणुप्रमाणाब्दं शिवलोके महीयते । ततः पुनरिहागत्य राजेन्द्रो भारते भवेत्
शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति । महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम्
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् । महीयते विष्णुलोके न तस्य पतनं भवेत्
तपांसि चैव सर्वाणि व्रतानि निखिलानि च । कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् । ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते
यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् । स तु निर्वाणतां याति न च जन्म भवेद्भुवि
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च । अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत्
चतुर्गुणं राजसूये फलमाप्नोति मानवः । सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः
विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने । शङ्करेण महेशेन त्रिपुरासुरनाशने
शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि । नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते
दक्षेण च कृतः पूर्वं महान्संवादसंयुतः । बभूव कलहो यत्र दक्षशङ्करयोः सति
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः । यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः