पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् । विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत्
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती । करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम्
मासं वाप्यर्धमासं वा दश सप्त दिनानि च । दिनमानयुगं सोऽपि शिवलोके महीयते
श्रीरामनवमीं यो हि करोति भारते पुमान् । सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे
पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् । जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत्
शारदीयां महापूजां प्रकृतेर्यः करोति च । महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा । नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलम्
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि । पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम्
अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् । महाप्रभावयुक्तश्च गजवाजिसमन्वितः
राजराजेश्वरः सोऽपि भवेदेव न संशयः । ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत्
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते । दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश
गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश । पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत्
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् । गोपानां शतकं कृत्वा गोपीनां शतकं तथा
शिलायां प्रतिमायां च श्रीकृष्णं राधया सह । भारते पूजयेद्भक्त्या चोपचाराणि षोडश
गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः । भारतं पुनरागत्य कृष्णे भक्तिं लभेद्दृढाम्
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः
ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत्
शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः । वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः
भारते पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् । क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः । ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत्
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् । भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः
षष्टिवर्षसहस्राणि शक्रलोके महीयते । रविवारे च संक्रान्त्यां सप्तम्यां शुक्लपक्षके
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते । महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् । ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत्
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि । पुनर्महीं समागत्य श्रीमानतुलविक्रमः
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः । माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम्
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश । महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम्
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः । गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते । गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः । तदन्ते पुनरागत्य राजराजेश्वरो भवेत्