इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे । भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा
गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः । विचित्रवीर्यनामानं राज्येशं च चकार ह
मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः । स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च
सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी । व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत्
यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः । चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः
काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः । तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे
राजानो राजपुत्राश्च समाहूताः सहस्रशः । इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः
तत्र भीष्मो महातेजास्ता जहार बलेन वै । निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान्
स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः । बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम्
मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल । तिस्रः समानयामास कन्यका वामलोचनाः
सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः । दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम्
कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् । विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा
तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् । लज्जमानासितापाङ्गी तिसॄणां चारुलोचना
गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक । मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः
वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले । यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप
तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः । बलवानसि गाङ्गेय यथेच्छसि तथा कुरु
सूत उवाच एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः । अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा
सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः । गच्छेति कन्यकां प्राह यथारुचि वरानने
विसर्जिताथ सा तेन गता शाल्वनिकेतनम् । उवाच तं वरारोहा राजानं मनसेप्सितम्
विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः । आगतास्मि महाराज गृहाणाद्य करं मम
धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम । चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः
शाल्व उवाच गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम । रथे संस्थापिता तेन न ग्रहीष्ये करं तव
परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः । अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत्
रुदती विलपन्ती सा त्यक्ता तेन महात्मना । पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत्
शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् । धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम्
भीष्म उवाच अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि । पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला
तथोक्ता सा तु भीष्मेण जगाम वनमेव हि । तपश्चकार विजने तीर्थे परमपावने
द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः । अम्बालिका चाम्बिका च काशिराजसुते शुभे
राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः । रेमे नानाविहारैश्च गृहे चोपवने तथा
वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् । प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा