पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् । नगराणां च नियुतं स लभेन्नात्र संशयः
धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् । परमैश्वर्यनियुतो भवेदेव महीतले
नगराणां च शतकं देशं यो हि द्विजातये । सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् । महीयते स वैकुण्ठे कोटिमन्वन्तरावधि
पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् । परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि
मही तं न जहात्येव जन्मनां कोटिमेव च । कल्पान्तजीवी स भवेद्राजराजेश्वरो महान्
स्वाधिकारं समग्रं च यो ददाति द्विजातये । चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः
जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने । फलं शतगुणं चान्ते भवेत्तस्य न संशयः
जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः । सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च । अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः
असंख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः । निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे
देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् । विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम्
लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते । पश्यन्ति ते मणिद्वीपे सखण्डं लोकसंक्षयम्
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च । देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः
कार्तिके तुलसीदानं करोति हरये च यः । युगत्रयप्रमाणं च मोदते हरिमन्दिरे
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् । जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि
मध्ये यः स्नाति गङ्गायामरुणोदयकालतः । युगषष्टिसहस्राणि मोदते हरिमन्दिरे
पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद् ध्रुवम् । त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम्
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले । करोति हरिदास्यं च तथा सारूप्यमेव च
नित्यस्नायी च गङ्गायां स पूतः सूर्यवद्भुवि । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्
तस्यैव पादरजसा सद्यःपूता वसुन्धरा । मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् । जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत्
स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः । मीनकर्कटयोर्मध्ये गाढं तपति भास्करः
भारते यो ददात्येव जलमेव सुवासितम् । स मोदते च कैलासे यावदिन्द्राश्चतुर्दश
पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् । शिवभक्तश्च तेजस्वी वेदवेदाङ्गपारगः
वैशाखे सक्तुदानं च यः करोति द्विजातये । सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् । शतजन्मकृतं पापं मुच्यते नात्र संशयः
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश । पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद् ध्रुवम्
इहैव भारते वर्षे शिवरात्रिं करोति यः । मोदते शिवलोके स सप्तमन्वन्तरावधि
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः । पत्रमानयुगं तत्र मोदते शिवमन्दिरे