इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् । निश्चितं निवसेत्तत्र शतमन्वन्तरावधि
फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् । कल्पान्तजीवी स भवेदित्याह कमलोद्भवः
तिलदानं ब्राह्मणाय यः करोति च भारते । तिलप्रमाणवर्षं च मोदते शिवमन्दिरे
ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी । ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत्
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् । यो ददाति ब्राह्मणाय भारते च पतिव्रताम्
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश । तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम्
ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् । दिवानिशं कौतुकेन चोर्वश्या सह मोदते
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् । सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम्
प्रददाति फलं चारु ब्राह्मणाय च यो नरः । फलप्रमाणवर्षं च शक्रलोके महीयते
पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् । सफलानां च वृक्षाणां सहस्रं च प्रशंसितम्
केवलं फलदानं वा ब्राह्मणाय ददाति च । सुचिरं स्वर्गवासं च कृत्वा याति च भारते
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् । ददाति यश्च विप्राय भारते विपुलं गृहम्
सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् । ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत्
यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति । ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते
महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् । पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत्
तं न त्यजति भूमिश्च जन्मनां शतकं परम् । श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः
यो व्रजं च प्रकृष्टं च ग्रामं दद्याद् द्विजाय च । लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते
पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् । न जहाति च तं पृथ्वी जन्मनां लक्षमेव च
सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् । नानापुष्करिणीवृक्षफलवल्लीसमन्वितम्
नगरं यश्च विप्राय ददाति भारते भुवि । महीयते स कैलासे दशलक्षेन्द्रकालकम्
पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् । नगराणां च नियुतं स लभेन्नात्र संशयः
धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् । परमैश्वर्यनियुतो भवेदेव महीतले
नगराणां च शतकं देशं यो हि द्विजातये । सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् । महीयते स वैकुण्ठे कोटिमन्वन्तरावधि
पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् । परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि
मही तं न जहात्येव जन्मनां कोटिमेव च । कल्पान्तजीवी स भवेद्राजराजेश्वरो महान्
स्वाधिकारं समग्रं च यो ददाति द्विजातये । चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः
जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने । फलं शतगुणं चान्ते भवेत्तस्य न संशयः
जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः । सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च । अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः