तस्यार्धं शिबिकादाने फलमेव लभेद् ध्रुवम् । यो ददाति भक्तियुक्तो हरये दोलमन्दिरम्
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् । राजमार्गं सौधयुक्तं यः करोति पतिव्रते
वर्षाणामयुतं सोऽपि शक्रलोके महीयते । ब्राह्मणेभ्योऽथ देवेभ्यो दाने समफलं लभेत्
यद्धि दत्तं च तद्भुङ्क्ते न दत्तं नोपतिष्ठते । भुक्त्वा स्वर्गादिजं सौख्यं पुण्यवाञ्जन्म भारते
लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु । भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं फलम्
पुनः सोऽपि भवेद्विप्रश्चैवं च क्षत्रियादयः । क्षत्रियो वाथ वैश्यो वा कल्पकोटिशतेन च
तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देवतीर्थसहायेन कायव्यूहेन शुध्यति । एतत्ते कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि
यमेन कर्मविपाककथनम् सावित्र्युवाच प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम । मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि
धर्मराज उवाच अन्नदानं च विप्राय यः करोति च भारते । अन्नप्रमाणवर्षं च शिवलोके महीयते
अन्नदानं महादानमन्येभ्योऽपि करोति यः । अन्नदानप्रमाणं च शिवलोके महीयते
अन्नदानात्परं दानं न भूतं न भविष्यति । नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित्
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि । महीयते विष्णुलोके वर्षाणामयुतं सति
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् । तल्लोममानवर्षं च विष्णुलोके महीयते
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् । दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत्
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् । वर्षाणामयुतं चैव चन्द्रलोके महीयते
यश्चोभयमुखीदानं करोति ब्राह्मणाय च । तल्लोममानवर्षं च विष्णुलोके महीयते
यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् । वर्षाणामयुतं सोऽपि मोदते वरुणालये
विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च । महीयते वायुलोके वर्षाणामयुतं सति
यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् । महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ
यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् । महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ
यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च । यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते
करोति गजदानं च यदि विप्राय भारते । यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत्
भारते योऽश्वदानं च करोति ब्राह्मणाय च । मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च । मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश
प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च । महीयते वायुलोके यावन्मन्वन्तरं सति
यो ददाति च विप्राय व्यजनं श्वेतचामरम् । महीयते वायुलोके वर्षाणामयुतं ध्रुवम्
धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः । दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ
सततं श्रीहरेर्नाम भारते यो जपेन्नरः । स एव चिरजीवी च ततो मृत्युः पलायते
यो नरो भारते वर्षे दोलनं कारयेत्सुधीः । पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः