स्वधर्मनिरता विप्राः सूर्यभक्ताश्च भारते । व्रजन्ति ते सूर्यलोकं पुनरायान्ति भारते
मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः । मणिद्वीपं प्रयान्त्येव पुनरावृत्तिवर्जितम्
स्वधर्मे निरता भक्ताः शैवाः शाक्ताश्च गाणपाः । ते यान्ति शिवलोकं च पुनरायान्ति भारते
ये विप्रा अन्यदेवेज्याः स्वधर्मनिरताः सति । ते यान्ति सर्वलोकं च पुनरायान्ति भारते
हरिभक्ताश्च निष्कामाः स्वधर्मनिरता द्विजाः । ते च यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो
स्वधर्मरहिता विप्रा देवान्यसेवनाः सदा । भ्रष्टाचाराश्च कामाश्च ते यान्ति नरकं ध्रुवम्
स्वधर्मनिरता एव वर्णाश्चत्वार एव च । भवन्त्येव शुभस्यैव कर्मणः फलभोगिनः
स्वकर्मरहिता ये च नरकं यान्ति ते ध्रुवम् । भारते न भवन्त्येव कर्मणः फलभोगिनः
स्वधर्मनिरता एव वर्णाश्चत्वार एव च । स्वधर्मनिरता विप्राः स्वधर्मनिरताय च
कन्यां ददति विप्राय चन्द्रलोकं प्रयान्ति ते । वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश
सालङ्कृताया दानेन द्विगुणं फलमुच्यते । सकामा यान्ति तल्लोकं न निष्कामाश्च साधवः
ते प्रयान्ति विष्णुलोकं फलसङ्घातवर्जिताः । गव्यं च रजतं स्वर्णं वस्त्रं सर्पिः फलं जलम्
ये ददत्येव विप्रेभ्यश्चन्द्रलोकं प्रयान्ति ते । वसन्ति ते च तल्लोके यावन्मन्वन्तरं सति
सुचिरात्सुचिरं वासं कुर्वन्ति तेन ते जनाः । ये ददति सुवर्णांश्च गाश्च ताम्रादिकं सति
ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च । वसन्ति ते तत्र लोके वर्षाणामयुतं सति
विपुले सुचिरं वासं कुर्वन्ति च निरामयाः । ददाति भूमिं विप्रेभ्यो धनानि विपुलानि च
स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् । तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ
विपुले विपुलं वासं करोति पुण्यवान्मुने । गृहं ददति विप्राय ये जना भक्तिपूर्वकम्
ते यान्ति विष्णुलोकं च सुचिरं सुखदायकम् । गृहरेणुप्रमाणं च विष्णुलोके महत्तमे
विपुले विपुलं वासं कुर्वन्ति मानवाः सति । यस्मै यस्मै च देवाय यो ददाति गृहं नरः
स याति तस्य लोकं च रेणुमानाब्दमेव च । सौधे चतुर्गुणं पुण्यं देशे शतगुणं फलम्
प्रकृष्टे द्विगुणं तस्मादित्याह कमलोद्भवः । यो ददाति तडागं च सर्वपापापनुत्तये
स याति जनलोकं च रेणुमानाब्दमेव च । वाप्यां फलं दशगुणं प्राप्नोति मानवः सदा
स तु वापीप्रदानेन तडागस्य फलं लभेत् । धनुश्चतुःसहस्रेण दर्श्यमानेन निश्चितम्
न्यूना वा तावती प्रस्थे सा वापी परिकीर्तिता । दशवापीसमा कन्या यदि पात्रे प्रदीयते
फलं ददाति द्विगुणं यदि सालङ्कृता भवेत् । यत्फलं च तडागे च तदुद्धारे च तत्कलम्
वाप्याश्च पङ्कोद्धरणे वापीतुल्यफलं लभेत् । अश्वत्थवृक्षमारोप्य प्रतिष्ठां यः करोति च
स प्रयाति तपोलोकं वर्षाणामयुतं सति । पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये
स वसेद् ध्रुवलोके च वर्षाणामयुतं धुवम् । यो ददाति विमानं च विष्णवे भारते सति
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् । चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम्