विचित्रवीर्यनामासौ द्वितीयः समजायत । सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः
गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः । तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ
शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् । अमंस्ताजय्यमात्मानं देवादीनां महामनाः
अथ कालेन कियता शन्तनुः कालपर्ययात् । तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम्
कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः । प्रेतकार्याणि सर्वाणि दानानि विविधानि च
चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् । स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत्
चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः । बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः
अथैकदा महाबाहुः सैन्येन महतावृतः । प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून्
चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् । उत्ततारान्तिकं भूमेर्विमानवरमास्थितः
तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः । कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः
इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे । भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा
गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः । विचित्रवीर्यनामानं राज्येशं च चकार ह
मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः । स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च
सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी । व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत्
यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः । चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः
काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः । तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे
राजानो राजपुत्राश्च समाहूताः सहस्रशः । इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः
तत्र भीष्मो महातेजास्ता जहार बलेन वै । निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान्
स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः । बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम्
मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल । तिस्रः समानयामास कन्यका वामलोचनाः
सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः । दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम्
कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् । विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा
तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् । लज्जमानासितापाङ्गी तिसॄणां चारुलोचना
गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक । मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः
वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले । यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप
तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः । बलवानसि गाङ्गेय यथेच्छसि तथा कुरु
सूत उवाच एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः । अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा
सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः । गच्छेति कन्यकां प्राह यथारुचि वरानने
विसर्जिताथ सा तेन गता शाल्वनिकेतनम् । उवाच तं वरारोहा राजानं मनसेप्सितम्
विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः । आगतास्मि महाराज गृहाणाद्य करं मम