सावित्रीवरदानेन त्वं सावित्री कला सती । प्राप्ता पुरा भूभृता च तपसा तत्समा सुते
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि । यथादितिः कश्यपे च यथाहल्या च गौतमे
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी । यथा रतिः कामदेवे यथा स्वाहा हुताशने
यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे । वरुणानी च वरुणे यज्ञे च दक्षिणा यथा
यथा वराहे पृथिवी देवसेना च कार्तिके । सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये
अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् । शृणु देवि महाभागे ददामि सकलेप्सितम्
सावित्र्युवाच सत्यवत औरसानां पुत्राणां शतकं मम । भविष्यति महाभाग वरमेतन्मदीप्सितम्
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी । राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम्
अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् । समतीते लक्षवर्षे देहीदं मे जगत्प्रभो
जीवकर्मविपाकं च श्रोतुं कौतूहलं मम । विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि
धर्मराज उवाच भविष्यति महासाध्वि सर्वं मानसिकं तव । जीवकर्मविपाकं च कथयामि निशामय
शुभानामशुभानां च कर्मणां जन्म भारते । पुण्यक्षेत्रे च नान्यत्र सर्वं च भुञ्जते जनाः
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः । नराश्च कर्मजनका न सर्वे जीविनः सति
विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु । शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च
विशेषतो जीविनश्च भ्रमन्ते सर्वयोनिषु । शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम्
शुभेन कर्मणा याति स्वर्लोकादिकमेव च । कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च
कर्मनिर्मूलने भक्तिः सा चोक्ता द्विविधा सति । निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह
रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा । दीर्घजीवी च क्षीणायुः सुखी दुःखी च कर्मणा
अन्धादयश्चाङ्गहीनाः कर्मणा कुत्सितेन च । सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा
सामान्यं कथितं देवि विशेषं शृणु सुन्दरि । सुदुर्लभं सुगोप्यं च पुराणेषु स्मृतिष्वपि
दुर्लभा मानुषी जातिः सर्वजातिषु भारते । सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु
ब्रह्मनिष्ठो द्विजश्चैव गरीयान् भारते सति । निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति
सकामाज्ज प्रधानश्च निष्कामो भक्त एव च । कर्मभोगी सकामश्च निष्कामो निरुपद्रवः
स याति देहं त्यक्त्वा च पदं यत्तन्निरामयम् । पुनरागमनं नास्ति तेषां निष्कामिनां सति
सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् । गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च । भारतं पुनरायान्ति तेषां जन्म द्विजातिषु
काले गते च निष्कामा भवन्त्येव ्क्रमेण च । भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः
ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु । न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति । ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारते
स्वधर्मनिरता ये च तीर्थान्यत्रनिवासिनः । व्रजन्ति ते सत्यलोकं पुनरायान्ति भारते