कर्मकर्ता च देही च आत्मा भोजयिता सदा । भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् । विषयाणां विभागानां भेदि बीजं च कीर्तितम्
बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् । वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम्
इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् । प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम्
अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् । लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम्
अङ्गिनामङ्गरूपं च प्रेरकं सर्वकर्मणाम् । रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम्
सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः । प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः
परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः । कारणं कारणानां च परमात्मा स उच्यते
इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् । ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम्
सावित्र्युवाच त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् । यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति
कां कां योनिं याति जीवः कर्मणा केन वा पुनः । केन वा कर्मणा स्वर्गं केन वा नरकं पितः
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद् गुरौ । केन वा कर्मणा योगी रोगी वा केन कर्मणा
केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा । केन वा कर्मणा दुःखी सुखी वा केन कर्मणा
अङ्गहीनश्च काणश्च बधिरः केन कर्मणा । अन्धो वा पङ्गुरपि वा प्रमत्तः केन कर्मणा
क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् । केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम्
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा । स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा
गोलोकं केन वा ब्रह्मन् सर्वोत्कृष्टं निरामयम् । नरको वा कतिविधः किंसंख्यो नाम किं च वा
को वा कं नरकं याति कियन्तं तेषु तिष्ठति । पापिनां कर्मणा केन को वा व्याधिः प्रजायते । यद्यत्प्रियं मया पृष्टं तन्मे व्याख्यातुमर्हसि
सावित्र्युपाख्याने कर्मविपाकवर्णनम् श्रीनारायण उवाच सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः । प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम्
धर्म उवाच कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना । ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम्
सावित्रीवरदानेन त्वं सावित्री कला सती । प्राप्ता पुरा भूभृता च तपसा तत्समा सुते
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि । यथादितिः कश्यपे च यथाहल्या च गौतमे
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी । यथा रतिः कामदेवे यथा स्वाहा हुताशने
यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे । वरुणानी च वरुणे यज्ञे च दक्षिणा यथा
यथा वराहे पृथिवी देवसेना च कार्तिके । सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये
अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् । शृणु देवि महाभागे ददामि सकलेप्सितम्
सावित्र्युवाच सत्यवत औरसानां पुत्राणां शतकं मम । भविष्यति महाभाग वरमेतन्मदीप्सितम्
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी । राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम्
अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् । समतीते लक्षवर्षे देहीदं मे जगत्प्रभो
जीवकर्मविपाकं च श्रोतुं कौतूहलं मम । विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि