स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् । लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम्
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः । कर्मणा च शिवत्वं च गणेशत्वं तथैव च
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा । स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा
कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः । स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा
कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा । कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा
कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा । कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा
दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा । इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् श्रीनारायण उवाच यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता । तुष्टाव परया भक्त्या तमुवाच मनस्विनी
सावित्र्युवाच किं कर्म तद्भवेत्केन को वा तद्धेतुरेव च । को वा देही च देहः कः को वात्र कर्मकारकः
किं वा ज्ञानं च बुद्धिः का को वा प्राणः शरीरिणाम् । कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः
भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः । को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि
धर्म उवाच वेदप्रणिहितो धर्मः कर्म यन्मङ्गलं परम् । अवैदिकं तु यत्कर्म तदेवाशुभमेव च
अहैतुकी देवसेवा संकल्परहिता सती । कर्मनिर्मूलरूपा च सा एव परभक्तिदा
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च । ब्रह्मभक्तो यो नरश्च स च मुक्तः श्रुतः श्रुतौ
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः । भक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता
निर्वाणपददात्री च हरिरूपप्रदा नृणाम् । हरिरूपस्वरूपां च भक्तिं वाञ्छन्ति वैष्णवाः
अन्ये निर्वाणमिच्छन्ति योगिनो ब्रह्मवित्तमाः । कर्मणो बीजरूपश्च सततं तत्फलप्रदः
कर्मरूपश्च भगवान्परात्मा प्रकृतिः परा । सोऽपि तद्धेतुरूपश्च देहो नश्वर एव च
पृथिवी वायुराकाशो जलं तेजस्तथैव च । एतानि सूत्ररूपाणि सृष्टिरूपविधौ सतः
कर्मकर्ता च देही च आत्मा भोजयिता सदा । भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् । विषयाणां विभागानां भेदि बीजं च कीर्तितम्
बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् । वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम्
इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् । प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम्
अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् । लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम्
अङ्गिनामङ्गरूपं च प्रेरकं सर्वकर्मणाम् । रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम्
सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः । प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः
परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः । कारणं कारणानां च परमात्मा स उच्यते
इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् । ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम्
सावित्र्युवाच त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् । यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति