लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः । माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम्
विप्रजीवनरूपं च निबोध कथयामि ते । कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा
नायाति सा तेन सार्धं ब्रह्मलोके च नारद । ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम्
तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् । ब्रह्मोवाव सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि
हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि । तेजःस्वरूपे परमे परमानन्दरूपिणि
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि । नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि
सर्वमङ्गलरूपे च प्रसन्ना भव सुन्दरि । सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि । विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे
बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि । कायेन मनसा वाचा यत्पापं कुरुते नरः
तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति । इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि
सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा । अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् । स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् । पाठे चतुर्णां वेदानां यत्फलं लभते च तत्
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् । ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम्
उवाच सा च राजानं प्रसन्ना सस्मिता सती । यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा
सावित्र्युवाच जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् । वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम्
साध्वी कन्याभिलाषं च करोति तव कामिनी । त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च
इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह । राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह
आराधनाच्च सावित्र्या बभूव कमला परा । सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः
कालेन सा वर्धमाना बभूव च दिने दिने । रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा
सा वरं वरयामास द्युमत्सेनात्मजं तदा । सत्यवन्तं सत्यशीलं नानागुणसमन्वितम्
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् । सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ
स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः । जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया
जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः । निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान्
यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने । गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती
पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः । उवाच मधुरं साध्वीं साधूनां प्रवरो महान्
धर्मराज उवाच अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् । यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज
गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् । देहं च मम लोकं च नश्वरं नश्वरः सदा
भर्तुस्ते पूर्णकालो वै बभूव भारते सति । स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम्
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा । स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत्