तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् । सुशीतलं वारि शीतं पिपासानाशकारणम्
जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् । देहशोभास्वरूपं च सभाशोभाविवर्धनम्
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् । काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा
सुखदं पुण्यदं रत्नभूषणं प्रतिगृह्यताम् । नानावृक्षसमुद्भूतं नानारूपसमन्वितम्
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् । सर्वमङ्गलरूपं च सर्वमङ्गलमङ्गलम्
नानापुष्पविनिर्माणं बहुशोभासमन्वितम् । प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम्
पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् । सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम्
भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् । विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम्
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् । द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः
ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् । सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः । माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम्
विप्रजीवनरूपं च निबोध कथयामि ते । कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा
नायाति सा तेन सार्धं ब्रह्मलोके च नारद । ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम्
तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् । ब्रह्मोवाव सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि
हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि । तेजःस्वरूपे परमे परमानन्दरूपिणि
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि । नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि
सर्वमङ्गलरूपे च प्रसन्ना भव सुन्दरि । सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि । विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे
बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि । कायेन मनसा वाचा यत्पापं कुरुते नरः
तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति । इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि
सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा । अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् । स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् । पाठे चतुर्णां वेदानां यत्फलं लभते च तत्
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् । ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम्
उवाच सा च राजानं प्रसन्ना सस्मिता सती । यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा
सावित्र्युवाच जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् । वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम्
साध्वी कन्याभिलाषं च करोति तव कामिनी । त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च
इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह । राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह
आराधनाच्च सावित्र्या बभूव कमला परा । सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः
कालेन सा वर्धमाना बभूव च दिने दिने । रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा
सा वरं वरयामास द्युमत्सेनात्मजं तदा । सत्यवन्तं सत्यशीलं नानागुणसमन्वितम्