वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम् । संस्थाप्य मङ्गलघटं फलशाखासमन्वितम्
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । सम्पूज्य पूजयेदिष्टं घटे आवाहिते द्विजः
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत् । स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम्
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभाम्
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम्
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः । सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम्
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् । वेदबीजस्वरूपां च भजे तां वेदमातरम्
ध्यात्वा ध्यानेन नैवेद्यं दत्त्वा पाणिं स्वमूर्धनि । पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद् व्रती
दत्त्वा षोडशोपचारं वेदोक्तं मन्त्रपूर्वकम् । सम्पूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् । धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम्
वसनं भूषणं माल्यं गन्धमाचमनीयकम् । मनोहरं सुतल्पं च देयान्येतानि षोडश
दारुसारविकारं च हेमादिनिर्मितं च वा । देवाधारं पुण्यदं च मया तुभ्यं निवेदितम्
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् । पूजाङ्गभूतं शुद्धं च मया तुभ्यं निवेदितम्
पवित्ररूपमर्घ्यं च दूर्वापुष्पदलान्वितम् । पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम्
सुगन्धं गन्धतोयं च स्नेहं सौगन्धकारकम् । मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम्
गन्धद्रव्योद्भवं पुण्यं प्रीतिदं दिव्यगन्धदम् । मया निवेदितं भक्त्या गन्धतोयं तवाम्बिके
सर्वमङ्गलरूपं च सर्वं च मङ्गलप्रदम् । पुण्यदं च सुधूपं तं गृहाण परमेश्वरि
सुगन्धयुक्तं सुखदं मया तुभ्यं निवेदितम् । जगतां दर्शनार्थाय प्रदीपं दीप्तिकारकम्
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् । तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम्
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् । ताम्बूलप्रवरं रम्यं कर्पूरादिसुवासितम्
तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् । सुशीतलं वारि शीतं पिपासानाशकारणम्
जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् । देहशोभास्वरूपं च सभाशोभाविवर्धनम्
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् । काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा
सुखदं पुण्यदं रत्नभूषणं प्रतिगृह्यताम् । नानावृक्षसमुद्भूतं नानारूपसमन्वितम्
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् । सर्वमङ्गलरूपं च सर्वमङ्गलमङ्गलम्
नानापुष्पविनिर्माणं बहुशोभासमन्वितम् । प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम्
पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् । सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम्
भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् । विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम्
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् । द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः
ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् । सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च