तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना । तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम्
तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् । कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम्
पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् । पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता
शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी । जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम्
इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेत्सुधीः । उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि
सावित्रीपूजाविधिकथनम् नारद उवाच तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् । ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि
पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः । केन वा पूजिता लोके प्रथमे कैश्च वा परे
श्रीनारायण उवाच ब्रह्मणा वेदजननी प्रथमे पूजिता मुने । द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः
तदा चाश्वपतिर्भूपः पूजयामास भारते । तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च
नारद उवाच को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता । सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे
श्रीनारायण उवाच मद्रदेशे महाराजो बभूवाश्वपतिर्मुने । वैरिणां बलहर्ता च मित्राणां दुःखनाशनः
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी । मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः
सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः । चकाराराधनं भक्त्या सावित्र्याश्चैव नारद
प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् । गृहं जगाम दुःखार्ता हृदयेन विदूयता
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै । सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा
तपश्चकार तत्रैव संयतः शतवत्सरम् । न ददर्श च सावित्र्या प्रत्यादेशो बभूव च
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् । गायत्र्या दशलक्षं च जपं त्वं कुरु नारद
एतस्मिन्नन्तरे तत्र आजगाम पराशरः । प्रणनाम ततस्तं च मुनिर्नृपमुवाच च
मुनिरुवाच सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् । दशवारं जपेनैव नश्येत्पापं दिवानिशम्
शतवारं जपश्चैव पापं मासार्जितं हरेत् । सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम्
लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् । सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः । करं सर्पफणाकारं कृत्वा तद्रन्धमुद्रितम्
आनम्रमूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः । अनामिकामध्यदेशादधोऽवामक्रमेण च
तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे । श्वेतपङ्कजबीजानां स्फटिकानां च संस्कृताम्
कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये । संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः । गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम्
अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् । अथ गङ्गोदकेनैव स्नात्वा वातिसुसंस्कृताम्
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु । साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात्
नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने । मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्