विष्णोर्वरेण सा देवी परितुष्टा बभूव च । सरस्वती तामाकृष्य वासयामास सन्निधौ
लक्ष्मीर्गङ्गा सस्मिता च तां समाकृष्य नारद । गृहं प्रवेशयामास विनयेन सतीं तदा
वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी । पुष्पसारा नन्दनी च तुलसी कृष्णजीवनी
एतन्नामाष्टकञ्चैव स्तोत्रं नामार्थसंयुतम् । यः पठेत्तां च संपूज्य सोऽश्वमेधफलं लभेत्
कार्तिक्यां पूर्णिमायां च तुलस्या जन्म मङ्गलम् । तत्र तस्याश्च पूजा च विहिता हरिणा पुरा
तस्यां यः पूजयेत्तां च भक्त्या वै विश्वपावनीम् । सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति
कार्तिके तुलसीपत्रं यो ददाति च विष्णुवे । गवामयुतदानस्य फलं प्राप्नोति निश्चितम्
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । बन्धुहीनो लभेद् बन्धून् स्तोत्रश्रवणमात्रतः
रोगी प्रमुच्यते रोगाद् बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी
इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं शृणु । त्वमेव वेदे जानासि कण्वशाखोक्तमेव च
तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना । तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम्
तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् । कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम्
पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् । पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता
शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी । जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम्
इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेत्सुधीः । उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि
सावित्रीपूजाविधिकथनम् नारद उवाच तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् । ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि
पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः । केन वा पूजिता लोके प्रथमे कैश्च वा परे
श्रीनारायण उवाच ब्रह्मणा वेदजननी प्रथमे पूजिता मुने । द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः
तदा चाश्वपतिर्भूपः पूजयामास भारते । तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च
नारद उवाच को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता । सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे
श्रीनारायण उवाच मद्रदेशे महाराजो बभूवाश्वपतिर्मुने । वैरिणां बलहर्ता च मित्राणां दुःखनाशनः
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी । मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः
सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः । चकाराराधनं भक्त्या सावित्र्याश्चैव नारद
प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् । गृहं जगाम दुःखार्ता हृदयेन विदूयता
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै । सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा
तपश्चकार तत्रैव संयतः शतवत्सरम् । न ददर्श च सावित्र्या प्रत्यादेशो बभूव च
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् । गायत्र्या दशलक्षं च जपं त्वं कुरु नारद
एतस्मिन्नन्तरे तत्र आजगाम पराशरः । प्रणनाम ततस्तं च मुनिर्नृपमुवाच च
मुनिरुवाच सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् । दशवारं जपेनैव नश्येत्पापं दिवानिशम्
शतवारं जपश्चैव पापं मासार्जितं हरेत् । सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम्