शिवस्तत्र समागत्य पाराशर्यमबोधयत् । व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः
परमां गतिमापन्नो दुर्लभां चाकृतात्मभिः । तस्य शोको न कर्तव्यस्त्वयाशोकं विजानता
कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ । व्यास उवाच न शोको याति देवेश किं करोमि जगत्पते
अतृप्ते लोचने मेऽद्य पुत्रदर्शनलालसे । महादेव उवाच छायां द्रक्ष्यसि पुत्रस्य पार्श्वस्थां सुमनोहराम्
तां वीक्ष्य मुनिशार्दूल शोकं जहि परन्तप । सूत उवाच तदा ददर्श व्यासस्तु छायां पुत्रस्य सुप्रभाम्
दत्त्वा वरं हरस्तस्मै तत्रैवान्तरधीयत । अन्तर्हिते महादेवे व्यासः स्वाश्रममभ्यगात्
शुकस्य विरहेणापि तप्तः परमदुःखितः
धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ऋषय ऊचुः शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः । किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम्
सूत उवाच शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः । आज्ञामादाय ते सर्वे गताः पूर्वं महीतले
असितो देवलश्चैव वैशम्पायन एव च । जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः
तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत । व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम्
सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् । मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम्
स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् । आजगाम महातेजा जन्मस्थानं स्वकं मुनिः
द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना । निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका
दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् । स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः
दाशराज उवाच अद्य मे सफलं जन्म पावितं नः कुलं मुने । देवानामपि दुर्दर्शं यज्जातं तव दर्शनम्
यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम । अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो
सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् । व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः
सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः । मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः
चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः । बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः
विचित्रवीर्यनामासौ द्वितीयः समजायत । सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः
गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः । तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ
शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् । अमंस्ताजय्यमात्मानं देवादीनां महामनाः
अथ कालेन कियता शन्तनुः कालपर्ययात् । तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम्
कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः । प्रेतकार्याणि सर्वाणि दानानि विविधानि च
चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् । स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत्
चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः । बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः
अथैकदा महाबाहुः सैन्येन महतावृतः । प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून्
चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् । उत्ततारान्तिकं भूमेर्विमानवरमास्थितः
तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः । कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः