स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्रवेरिति । इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि
तुलसीपूजाविधिवर्णनम् नारद उवाच तुलसी च यदा पूज्या कृता नारायणप्रिया । अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम्
केन पूजा कृता केन स्तुता प्रथमतो मुने । तत्र पूज्या सा बभूव केन वा वद मामहो
सूत उवाच नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । कथां कथितुमारेभे पुण्यां पापहरां पराम्
श्रीनारायण उवाच हरिः संपूज्य तुलसीं रेमे च रमया सह । रमासमानसौभाग्यां चकार गौरवेण च
सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् । सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती
सा तां जघान कलहे मानिनी हरिसन्निधौ । व्रीडया चापमानेन सान्तर्धानं चकार ह
सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी । जगामादर्शनं कोपात्सर्वत्र च हरेरहो
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् । तदनुज्ञां गहीत्वा च जगाम तुलसीवनम्
तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् । पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् । वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च
अनेन कल्पतरुणा मन्त्रराजेन नारद । पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम्
घृतदीपेन धूपेन सिन्दूरचन्दनेन च । नैवेद्येन च पुष्पेण चोपचारेण नारद
हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् । प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा
वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति । अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि
सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः । इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः
नारद उवाच किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् । तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा । तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः
श्रीभगवानुवाच वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च । विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम्
पुरा बभूव या देवी त्वादौ वृन्दावने वने । तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम्
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् । तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम्
असंख्यानि च विश्वानि पवित्राणि त्वया सदा । तां विश्वपावनीं देवीं विरहेण स्मराम्यहम्
देवा न तुष्टाः पुष्पाणां समूहेन यया विना । तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् । नन्दिनी तेन विख्याता सा प्रीता भवतादिह
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च । तुलसी तेन विख्याता तां यामि शरणं प्रियाम्
कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती । तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम्
इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः । ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम्
रुदतीमवमानेन मानिनीं मानपूजिताम् । प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि
भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः । भारत्या सह तत्प्रीतिं कारयामास सत्वरम्
वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति । शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च