द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् । वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम्
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् । सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम्
द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् । सङ्कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् । सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः
शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता
यानि कानि च पापानि ब्रह्महत्यादिकानि च । तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात्
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः । दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम्
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च । भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम्
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् । शालग्रामस्य सान्निध्यात्प्रशस्तं तद्भवेदिति
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च
पाठे चतुर्णां वेदानां तपसां करणे सति । तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात्
(शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् । सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः । सुरेप्सितं प्रसादं च लभते नात्र संशयः
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च । जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम्
तत्रैव हरिणा सार्धमसंख्यं प्राकृतं लयम् । यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि
यानि कानि च पापानि ब्रह्महत्यासमानि च । तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः
तत्पादरजसा देवी सद्यःपूता वसुन्धरा । पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते । विष्णोः पदे प्रलीनश्च भविष्यति न संशयः
शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः । स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः
शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् । स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि
तुलसीपत्रविच्छेदं शालग्रामे करोति यः । तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति
तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च । भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु
शालग्रामं च तुलसीं शङ्खं चैकत्र एव च । यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः
सकृदेव हि यो यस्यां वीर्याधानं करोति च । तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम्
त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि । शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तथा
इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद । सा च देहं परित्यज्य दिव्यरूपं विधाय च
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि । स जगाम तया सार्धं वैकुण्ठं कमलापतिः
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद । हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च
सद्यस्तद्देहजाता च बभूव गण्डकी नदी । ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम्
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने । जले पतन्ति या याश्च फलदास्ताश्च निश्चितम्