गवामयुतदानेन यत्फलं तत्फलं भवेत् । तुलसीपत्रदानेन तत्फलं कार्तिके सति
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत्। मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते
नित्यं यस्तुलसीतोयं भुंक्ते भक्त्या च मानवः । लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः
तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः । प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति । स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ
करोति मिथ्याशपथं तुलस्या योऽत्र मानवः । स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् । रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम्
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे । तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः
अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः । तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति । श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने
भूगतं तोयपतितं यद्दत्तं विष्णवे सति । शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि
वृक्षाधिष्ठातृदेवी या गोलोके च निरामये । कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा । लवणोदस्य सा पत्नी मदंशस्य भविष्यति
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ । रमासमा च रामा च भविष्यसि न संशयः
अहं च शैलरूपेण गण्डकीतीरसन्निधौ । अधिष्ठानं करिष्यामि भारते तव शापतः
कोटिसंख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः । तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम्
एकद्वारं चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम्
एकद्वारं चतुश्चक्रं नवीननीरदोपमम् । लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया
द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् । रघुनाथाभिधं ज्ञेयं रहितं वनमालया
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् । तद्वामनाभिधं ज्ञेयं रहितं वनमालया
अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् । विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा
स्थूलं च वर्तुलाकारं रहितं वनमालया । द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् । रणरामाभिधं ज्ञेयं शरतूणसमन्वितम्
मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् । राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम्
द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् । अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम्
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् । सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम्
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् । द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम्
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति । नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम्
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् । लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम्