नवीननीरदश्यामं शरत्पङ्कजलोचनम् । कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम्
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् । तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह । तुलस्युवाच हे नाथ ते दया नास्ति पाषाणसदृशस्य च
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः । पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो
तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना । ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः
भक्तो विनापराधेन परार्थे च कथं हतः । भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः
ततश्च करुणां दृष्ट्वा करुणारससागरः । नयेन तां बोधयितुमुवाच कमलापतिः
श्रीभगवानुवाच तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् । त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः
कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् । अधुना दातुमुचितं तवैव तपसः फलम्
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च । रामे रम मया सार्धं त्वं रमासदृशी भव
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता । पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते
तव केशसमूहश्च पुण्यवृक्षो भविष्यति । तुलसीकेशसम्भूता तुलसीति च विश्रुता
त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने । प्रधानरूपा तुलसी भविष्यति वरानने
स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ । भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी
गोलोके विरजातीरे रासे वृन्दावने वने । भाण्डीरे चम्पकवने रम्ये चन्दनकानने
माधवीकेतकीकुन्दमालिकामालतीवने । वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः
तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् । अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति
तत्रैव सर्वदेवानां ममाधिष्ठानमेव च । तुलसीपत्रपतनप्राप्तये च वरानने
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । तुलसीपत्रतोयेन योऽभिषेकं समाचरेत्
सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः । सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः
गवामयुतदानेन यत्फलं तत्फलं भवेत् । तुलसीपत्रदानेन तत्फलं कार्तिके सति
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत्। मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते
नित्यं यस्तुलसीतोयं भुंक्ते भक्त्या च मानवः । लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः
तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः । प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति । स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ
करोति मिथ्याशपथं तुलस्या योऽत्र मानवः । स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् । रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम्
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे । तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः
अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः । तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः