गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने । भक्त्या च चरणाम्भोजं रासे वृन्दावने वने
सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ । क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ
अथ शलं च वेगेन प्रययौ तं च सादरम् । अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह
नानाप्रकाररूपेण शश्वत्पूता सुरार्चने । प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम्
तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना । शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा
स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा । शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः
तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् । स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः
भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः । शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह
प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः । सुराः स्वविषयं प्रापुः परमानन्दसंयुताः
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः । बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् । प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः
तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् नारद उवाच नारायणश्च भगवान्वीर्याधानं चकार ह । तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच नारायणश्च भगवान्देवानां साधनेषु च । शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया
पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् । पातिव्रतस्य नाशेन शङ्खचूडजिघांसया
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ । जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम्
तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता । राजमार्गे गवाक्षेण ददर्श परमादरात्
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् । वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ । अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम्
दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता । तत्पादं क्षालयामास ननाम च रुरोद च
रत्नसिंहासने रम्ये वासयामास कामुकी । ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम्
अद्य मे सफलं जन्म जीवनं च बभूव ह । रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे
सस्मिता सकटाक्षं च सकामा पुलकाङ्किता । पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा
तुलस्युवाच असंख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो । कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः । शङ्खचूडस्य रूपेण तामुवाचामृतं वचः
श्रीभगवानुवाच आवयोः समरः कान्ते पूर्णमब्दं बभूव ह । नाशो बभूव सर्वेषां दानवानां च कामिनि
प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः । देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया
मयागतं स्वभवनं शिवलोकं शिवो गतः । इत्युक्त्वा जगतां नाथः शयनं च चकार ह
रेमे रमापतिस्तत्र रामया सह नारद । सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात्
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा । तुलस्युवाच को वा त्वं वद मायेश भुक्ताहं मायया त्वया
दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे । तुलसीवचनं श्रुत्वा हरिः शापभयेन च
दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् । ददर्श पुरतो देवी देवदेवं सनातनम्