तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च । शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति
गत्वा तस्यां मायया च वीर्याधानं चकार ह । अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति
ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् । दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम्
तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् । शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम्
धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् । सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम्
संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया । चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् । ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया
शूलं च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तं च सरथं चाथ लीलया
राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्
रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः । गोलोकादागतं यानमारुरोह पुरं ययौ
गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने । भक्त्या च चरणाम्भोजं रासे वृन्दावने वने
सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ । क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ
अथ शलं च वेगेन प्रययौ तं च सादरम् । अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह
नानाप्रकाररूपेण शश्वत्पूता सुरार्चने । प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम्
तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना । शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा
स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा । शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः
तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् । स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः
भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः । शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह
प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः । सुराः स्वविषयं प्रापुः परमानन्दसंयुताः
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः । बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् । प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः
तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् नारद उवाच नारायणश्च भगवान्वीर्याधानं चकार ह । तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच नारायणश्च भगवान्देवानां साधनेषु च । शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया
पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् । पातिव्रतस्य नाशेन शङ्खचूडजिघांसया
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ । जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम्
तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता । राजमार्गे गवाक्षेण ददर्श परमादरात्
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् । वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ । अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम्
दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता । तत्पादं क्षालयामास ननाम च रुरोद च
रत्नसिंहासने रम्ये वासयामास कामुकी । ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम्
अद्य मे सफलं जन्म जीवनं च बभूव ह । रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे