जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा । निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः । यावदस्ति च मन्त्रस्य कवचं च हरेरिति
यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः । तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः
इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् । शतलक्षं दानवानां जग्रास लीलया क्षुधा
ग्रस्तुं जगाम वेगेन शङ्खचूडं भयङ्करी । दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः
खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा । दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः
पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् । सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः
वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी । बभञ्ज च रथं तस्य जघान सारथिं सती
सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् । वामहस्तेन जग्राह शङ्खचूडः स्वलीलया
मुष्ट्या जघान तं देवी महाकोपेन वेगतः । बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् । न चकार बाहुयुद्धं देव्या सह ननाम ताम्
देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा । नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः । ऊर्ध्वं च प्रापयामास महावेगेन कोपिता
ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् । निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम्
रत्नेन्द्रसारनिर्माणं विमानं सुमनोहरम् । आरुरोह हर्षयुक्तो न विश्रान्तो महारणे
दानवानां च क्षतजं सा देवी च पपौ क्षुधा । पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम्
उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् । श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम्
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना । भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर
संग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै । अवध्यस्तव राजेति वाग्बभूवाशरीरिणी
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः । न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम्
शङ्खचूडवधवर्णनम् शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः । ययौ स्वयं च समरे स्वगणैः सह नारद
शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च । ननाम परया भक्त्या शिरसा दण्डवद्भुवि
तं प्रणम्य च वेगेन विमानमारुरोह सः । तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम्
शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा । न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ
न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः । रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः
दानवानां च शतकमुद्धृतं च बभूव ह । रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः
एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः । आगत्य च रणस्थानमुवाच दानवेश्वरम्
वृद्धब्राह्मण उवाच देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् । त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम्
निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् । पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः । कवचार्थी जनश्चाहमित्युवाचातिमायया