देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः । एक एव कार्तिकेयस्तस्थौ समरमूर्धनि
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा । नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम्
नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः । नीहारेण च सान्द्रेण प्रहितो भास्करो यथा
धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः । बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान्
मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः । शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम्
क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः । गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा
रत्नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः । शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम्
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः
वह्निं निर्वापयामास पार्जन्येन प्रतापवान् । रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया
सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् । चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि
मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह । आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः
चकार शरजालं च मायया मायिनां वरः । गुहं चच्छाद समरे शरजालेन नारद
जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् । प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम्
चिक्षेप तां च कोपेन महावेगेन कार्तिके । पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला
मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः । काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ
शिवस्तं चापि ज्ञानेन जीवयामास लीलया । ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान्
काली जगाम समरं रक्षितुं कार्तिकस्य या । वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः । वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः
सा च गत्वाथ संग्रामं सिंहनादं चकार च । देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः
अट्टाट्टहासमशिवं चकार च पुनः पुनः । दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि
उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु । योगिनीडाकिनीनां च गणाः सुरगणादयः
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ । दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् । राजा निर्वापयामास पार्जन्येन च लीलया
चिक्षेप वारुणं सा च तीव्रं च महदद्भुतम् । गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् । राजा जघान तं शीघ्रं वैष्णवेन च लीलया
नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् । राजा ननाम तद् दृष्ट्वा चावरुह्य रथादसौ
ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् । पपात शङ्खचूडश्च भक्त्या तं दण्डवद्भुवि
ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् । ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः
तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् । राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च
तदा चिक्षेप शक्तिं च यत्नतो योजनायताम् । राजा दिव्यास्त्रजालेन शतखण्डां चकार ह