त्वं तु दुःखी सदैवासि बद्धोऽहमिति शङ्कया । इति शङ्कां परित्यज्य सुखी भव समाहितः
देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता । तथा धनं गृहं राज्यं न ममेति च निश्चयः
सूत उवाच तच्छ्रुत्वा वचनं तस्य शुकः प्रीतमनाभवत् । आपृच्छ्य तं जगामाशु व्यासस्याश्रममुत्तमम्
आगच्छन्तं सुतं दृष्ट्वा व्यासोऽपि सुखमाप्तवान् । आलिङ्ग्याघ्राय मूर्धानं पप्रच्छ कुशलं पुनः
स्थितस्तत्राश्रमे रम्ये पितुः पार्श्वे समाहितः । वेदाध्ययनसम्पन्नः सर्वशास्त्रविशारदः
जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः । स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः
पितॄणां सुभगा कन्या पीवरी नाम सुन्दरी । शुकश्चकार पत्नीं तां योगमार्गस्थितोऽपि हि
स तस्यां जनयामास पुत्रांश्चतुर एव हि । कृष्णं गौरप्रभं चैव भूरिं देवश्रुतं तथा
कन्यां कीर्तिं समुत्पाद्य व्यासपुत्रः प्रतापवान् । ददौ विभ्राजपुत्राय त्वणुहाय महात्मने
अणुहस्य सुतः श्रीमान्ब्रह्मदत्तः प्रतापवान् । ब्रह्मज्ञः पृथिवीपालः शककन्यासमुद्भवः
कालेन कियता तत्र नारदस्योपदेशतः । ज्ञानं परमकं प्राप्य योगमार्गमनुत्तमम्
पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम् । मायाबीजोपदेशेन तस्य ज्ञानं निरर्गलम्
नारदस्य प्रसादेन जातं सद्यो विमुक्तिदम् । कैलासशिखरे रम्ये त्यक्त्वा सङ्गं पितुः शुकः
ध्यानमास्थाय विपुलं स्थितः सङ्गपराङ्मुखः । उत्पपात गिरेः शृङ्गात्सिद्धिं च परमां गतः
आकाशगो महातेजा विरराज यथा रविः । गिरेः शृङ्गं द्विधा जातं शुकस्योत्पतने तदा
उत्पाता बहवो जाताः शुकश्चाकाशगोऽभवत् । अन्तरिक्षे यथा वायुः स्तूयमानः सुरर्षिभिः
तेजसातिविराजन्वै द्वितीय इव भास्करः । व्यासस्तु विरहाक्रान्तः क्रन्दन्पुत्रेति चासकृत्
गिरेः शृङ्गे गतस्तत्र शुको यत्र स्थितोऽभवत् । क्रन्दमानं तदा दीनं व्यासं मत्वा श्रमाकुलम्
सर्वभूतगतः साक्षी प्रतिशब्दमदात्तदा । तत्राद्यापि गिरेः शृङ्गे प्रतिशब्दः स्फुटोऽभवत्
रुदन्तं तं समालक्ष्य व्यासं शोकसमन्वितम् । पुत्र पुत्रेति भाषन्तं विरहेण परिप्लुतम्
शिवस्तत्र समागत्य पाराशर्यमबोधयत् । व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः
परमां गतिमापन्नो दुर्लभां चाकृतात्मभिः । तस्य शोको न कर्तव्यस्त्वयाशोकं विजानता
कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ । व्यास उवाच न शोको याति देवेश किं करोमि जगत्पते
अतृप्ते लोचने मेऽद्य पुत्रदर्शनलालसे । महादेव उवाच छायां द्रक्ष्यसि पुत्रस्य पार्श्वस्थां सुमनोहराम्
तां वीक्ष्य मुनिशार्दूल शोकं जहि परन्तप । सूत उवाच तदा ददर्श व्यासस्तु छायां पुत्रस्य सुप्रभाम्
दत्त्वा वरं हरस्तस्मै तत्रैवान्तरधीयत । अन्तर्हिते महादेवे व्यासः स्वाश्रममभ्यगात्
शुकस्य विरहेणापि तप्तः परमदुःखितः
धृतराष्ट्रादीनामुत्पत्तिवर्णनम् ऋषय ऊचुः शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः । किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम्
सूत उवाच शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः । आज्ञामादाय ते सर्वे गताः पूर्वं महीतले
असितो देवलश्चैव वैशम्पायन एव च । जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः