त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् । सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह
सह शुम्भादिभिः पूर्वं समरः परमाद्भुतः । पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः
ये ये हताश्च दैतेया नहि केऽपि त्वया समाः । का लज्जा महती राजन् मम युद्धे त्वया सह
सुराणां शरणस्यैव प्रेषितश्च हरेरहो । देहि राज्यं च देवानामिति मे निश्चितं वचः
युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् । इत्युक्त्वा शङ्करस्तत्र विरराम च नारद । उत्तस्थौ शङ्खचूडश्च ह्यमात्यैः सह सत्वरम्
कालीशङ्खचूडयुद्धवर्णनम् श्रीनारायण उवाच शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् । समारुरोह यानं च सहामात्यैः स सत्वरः
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् । दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा । भास्करो युयुधे विप्रचित्तिना सह सत्वरः
दम्भेन सह चन्द्रश्च चकार परमं रणम् । कालस्वरेण कालश्च गोकर्णेन हुताशनः
कुबेरः कालकेयेन विश्वकर्मा मयेन च । भयङ्करेण मृत्युश्च संहारेण यमस्तथा
विकङ्कणेन वरुणश्चञ्चलेन समीरणः । बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः
जयन्तो रत्नसारेण वसवो वर्चसां गणैः । अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः
धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः । शोभाकरेण वै भानुः पिठरेण च मन्मथः
गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च । काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना
विश्वेन च पलाशेनादित्याद्या युयुधुः परे । एकादश च रुद्रा वै एकादशभयङ्करैः
महामारी च युयुधे चोग्रचण्डादिभिः सह । नन्दीश्वरादयः सर्वे दानवानां गणैः सह
युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे । वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने । रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह
उवास शङ्खचूडश्च रत्नभूषणभूषितः । शङ्करस्य च ये योधा दानवैश्च पराजिताः
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः । चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ
बलं च स्वर्गणानां च वर्धयामास तेजसा । सोऽयमेकश्च युयुधे दानवानां गणैः सह
अक्षौहिणीनां शतकं समरे च जघान सः । असुरान्पातयामास काली कमललोचना
पपौ रक्तं दानवानामतिकुद्धा ततः परम् । दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः
समादायैकहस्तेन मुखे चिक्षेप लीलया । कबन्धानां सहस्रं च ननर्त समरे मुने
स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः । भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः । स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च
महामारी च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते च संक्षुब्धाः स्कन्दस्य शक्तिपीडिताः
न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह । स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम्
दानवानां क्षयकरं यथा प्राकृतिको लयः । राजा विमानमारुह्य चकार बाणवर्षणम्
नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा । महाघोरान्धकारश्च वह्न्युत्थानं बभूव च