कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा । यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः
दिनेषु यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् । उदयं याति कालेन बालतां च क्रमेण च
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः । दिने प्रच्छन्नतां याति कालेन दुर्दिने घने
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् । परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते
तादृशो न भवेन्नित्यं क्षयं याति दिने दिने । पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने
सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा । राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते
काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः । भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा । काले जले निमग्ना सा तिरोभूताम्बुविप्लुता
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः । चराचराश्च कालेन नश्यन्ति प्रभवन्ति च
ईश्वरस्यैव समता ब्रह्मणः परमात्मनः । अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम्
आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः । स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः
स चात्मा स च जीवश्च नानारूपधरः परः । करोति सततं यो हि तनामगुणकीर्तनम्
काले मृत्युं स जयति जन्मरोगभयं जराम् । स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत्
अहं कृतश्च संहर्ता वयं विषयिणः कृताः । कालाग्निरुद्रं संहारे नियोज्य विषये नृप
अहं करोमि सततं तन्नामगुणकीर्तनम् । तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः
मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः । इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः
विरराम च शम्भुश्च सभामध्ये च नारद । राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः
उवाच मधुरं देवं परं विनयपूर्वकम् । शङ्खचूड उवाच त्वया यत्कथितं देव नान्यथा वचनं स्मृतम्
तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् । ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत्
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः । मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर
सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः । सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः
शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः । पुरा समुद्रमथने पीयूषं भक्षितं सुरैः
क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः । क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः
यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा । देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च । तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम्
समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः । इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना
जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये । इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः
यथोचितमुत्तरं तमुवाच दानवेश्वरम् । महादेव उवाच युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्भवैः
का लज्जा महती राजन्नकीर्तिर्वा पराजये । युद्धमादौ हरेरेव मधुना कैटभेन च
हिरण्यकशिपोश्चैव सह तेनात्मना नृप । हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता