तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव । इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम्
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते । नानाप्रकारविभवं चकार रत्नमन्दिरे
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् । निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः
कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् । कृशोदरीं निराहारां निमग्नां शोकसागरे
पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् । पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम्
स च तस्यै ददौ सर्वं सर्वशोकहरं परम् । ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा
क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् । तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे
पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने । अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको
एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा । प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम्
प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् । तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ । क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात्
कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः । क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ
सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ । सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ
शङ्खचूडकृते प्रबोधवाक्यवर्णनम् श्रीनारायण उवाच श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः । ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात्
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा । धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम्
चकाराह्निकमावश्यमभीष्टदेववन्दनम् । दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम्
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् । ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् । ददौ विप्राय गुरवे यात्रामङ्गलहेतवे
गजरत्नमश्वरत्नं धनरत्नं मनोहरम् । ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च
भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् । ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा
पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च । पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम्
प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् । स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह
भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् । अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम्
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः । त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः
कृता सेनापरिमिता दानवेन्द्रेण नारद । तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः
महारथः स विज्ञेयो रथिनां प्रवरो रणे । त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः
त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह । बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन्
रत्नेन्द्रसारनिर्माणविमानमारुरोह सः । गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम्
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः । सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद
कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते । पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे