यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान्
मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् । विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे
संहर्तारं च संहर्तुस्तं देवं शरणं व्रज । को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये
अहं को वा च त्वं का वा विधिना योजितः पुरा । त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः
अज्ञानी कातरः शोके विपत्तौ न च पण्डितः । सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च
नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् । तपः कृतं यदर्थं च पुरा बदरिकाश्रमे
मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च । हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि । अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम्
तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् । अगमं राधिकाशापाद्भारतं च सुदुर्लभम्
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये । त्वं च देहं परित्यज्य दिव्यरूपं विधाय च
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव । इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम्
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते । नानाप्रकारविभवं चकार रत्नमन्दिरे
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् । निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः
कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् । कृशोदरीं निराहारां निमग्नां शोकसागरे
पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् । पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम्
स च तस्यै ददौ सर्वं सर्वशोकहरं परम् । ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा
क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् । तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे
पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने । अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको
एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा । प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम्
प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् । तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ । क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात्
कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः । क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ
सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ । सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ
शङ्खचूडकृते प्रबोधवाक्यवर्णनम् श्रीनारायण उवाच श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः । ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात्
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा । धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम्
चकाराह्निकमावश्यमभीष्टदेववन्दनम् । दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम्
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् । ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् । ददौ विप्राय गुरवे यात्रामङ्गलहेतवे
गजरत्नमश्वरत्नं धनरत्नं मनोहरम् । ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च
भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् । ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा