नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा । पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम्
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा । अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम्
आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः । सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः । वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः
ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् । पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया
अथ दूते गते तत्र शङ्खचूडः प्रतापवान् । उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च
रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका । उवाच मधुरं साध्वी हृदयेन विदूयता
तुलस्युवाच हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् । हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम्
भुंक्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् । पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम्
आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् । दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर । उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम्
शंखचूड उवाच कालेन योजितं सर्वं कर्मभोगनिबन्धनम् । शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्गलम्
काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः । क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः । ते सर्वे फलिताः काले पातं यान्ति च कालतः
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि । कालात्स्रष्टा च सृजति पाता पाति च कालतः
संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते । ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा
स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः । काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः
निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् । सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः
जनं जनेन जनिता जनं पाति जनेन यः । जनं जनेन हरते तं देवं भज साम्प्रतम्
यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् । यस्याज्ञया च तपनस्तपत्येव यथाक्षणम्
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान्
मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् । विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे
संहर्तारं च संहर्तुस्तं देवं शरणं व्रज । को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये
अहं को वा च त्वं का वा विधिना योजितः पुरा । त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः
अज्ञानी कातरः शोके विपत्तौ न च पण्डितः । सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च
नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् । तपः कृतं यदर्थं च पुरा बदरिकाश्रमे
मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च । हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि । अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम्
तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् । अगमं राधिकाशापाद्भारतं च सुदुर्लभम्
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये । त्वं च देहं परित्यज्य दिव्यरूपं विधाय च