शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः । एवंभूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः
उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च । पुष्पदन्त उवाच राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो
यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय । राज्यं देहि च देवानामधिकारं च साम्प्रतम्
देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् । हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः
पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः । विषयं देहि तेषां च युद्धं वा कुरु निश्चितम्
गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि । दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च
प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह । स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम्
शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् । एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम्
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः । विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः । कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः
कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः । बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः । वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ । कुबेरश्च यमश्चैव जयन्तो नलकूबरः
वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा । धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान्
उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा । स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता । रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा । अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम्
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् । शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान्
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् । त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम्
मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् । वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम्
नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा । पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम्
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा । अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम्
आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः । सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः । वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः
ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् । पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया
अथ दूते गते तत्र शङ्खचूडः प्रतापवान् । उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च
रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका । उवाच मधुरं साध्वी हृदयेन विदूयता
तुलस्युवाच हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् । हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम्
भुंक्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् । पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम्
आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् । दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि